|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.72. अध्यायः 072
Mahabharata - Sabha Parva - Chapter Topics
युधिष्ठिरेण व्यासादीनां पूजनम्॥ 1॥ राज्ञां युधिष्ठिरमामन्त्र्य स्वस्वदेशगमनम्॥ 2॥ श्रीकृष्णस्य युधिष्ठिरादीनामन्त्र्य द्वारकां प्रति गमनम्॥ 3॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच॥
ततः स कुरुराजस्य सर्वकर्मसमृद्धिमान्।
यज्ञः प्रीतिकरो राजन्संबभौ विपुलोत्सवः॥ 2-72-1(14156)
शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान्।
अन्नवान्बहुभक्ष्यश्च केशवेन सुरक्षितः॥ 2-72-2(14157)
समापयामास च तं राजसूयं महाक्रतुम्।
`कोटिसहस्रं प्रददौ ब्राह्मणानां महात्मनाम्॥ 2-72-3(14158)
न करिष्यति तं लोके कश्चिदन्यो महीपतिः।
याजकाः सर्वकामैश्च सततं ततृपुर्धनैः॥ 2-72-4(14159)
ततश्चावभृथस्नातः स राजा पाण्डुनन्दनः।
व्यासं धौम्यं वसिष्ठं च नारदं च महामुनिम्॥ 2-72-5(14160)
सुमन्तु जैमिनिं पैलं वैशम्पायनमेव च।
याज्ञवल्क्यं च कपिलं कपालं कौशिकं तथा।
सर्वांश्च ऋत्विक्प्रवरान्पूजयामास सत्कृतान्॥ 2-72-6(14161)
युधिष्ठिर उवाच॥ 2-72-7x(1506)
युष्मत्प्रसादात्प्राप्तोऽयं राजसूयो महाक्रतुः।
जनार्दनप्रसादाद्धि सम्पूर्णो मे मनोरथः॥ 2-72-7(14162)
वैशम्पायन उवाच॥ 2-72-8x(1507)
अथ यज्ञं समाप्यान्ते पूजयामास माधवम्।
बलदेव च देवेशं भीष्माद्यांश्च कुरूद्वहान्'॥ 2-72-8(14163)
ततस्त्ववभृथस्नातं धर्मात्मानं युधिष्ठिरम्।
समस्तं पार्थिवं क्षत्रमुपगम्येदमब्रवीत्॥ 2-72-9(14164)
दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवानसि।
आजमीढाजमीढानां यशः संवर्धितं त्वया॥ 2-72-10(14165)
कर्मणैतेन राजेन्द्र धर्मश्च सुमहान्कृतः।
आपृच्छामो नरव्याघ्र सर्वकामैः सूपूजिताः॥ 2-72-11(14166)
स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि।
श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः॥ 2-72-12(14167)
यथार्हं पूज्य नृपतीन्भ्रातॄन्सर्वानुवाच ह।
राजानः सर्व एवैते प्रीत्याऽस्मान्प्तमुपागताः॥ 2-72-13(14168)
प्रस्थिताः स्वानि राष्ट्राणि मामापृच्छय परन्तपाः।
अनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान्॥ 2-72-14(14169)
भ्रातुर्वचनमाज्ञाय पाण्डवा धर्मचारिणः।
यथार्हं नृपतीन्सर्वानेकैकं समनुव्रजन्॥ 2-72-15(14170)
विरायटमन्वायात्तूर्णं धृष्टह्युम्नः प्रतापवान्।
धनञ्जयो यज्ञसेनं महात्मानं महारथम्॥ 2-72-16(14171)
भीष्मं च धृतराष्ट्रं च भीमसेनो महाबलः।
द्रोणं तु ससुतं वीरं सहदेवो युधां पतिः॥ 2-72-17(14172)
नकुलः सुबलं राजन्सहपुत्रं समन्वयात्।
द्रौपदेयाः ससौभद्राः पार्वतीयान्महारथान्॥ 2-72-18(14173)
अन्वगच्छंस्तथैवान्यान्क्षत्रियान्क्षत्रियर्षभाः।
एवं सुपूजिताः सर्वे जग्मुर्विप्राः सहस्रशः॥ 2-72-19(14174)
गतेषु पार्थिवेन्द्रेषु सर्वेषु ब्राह्मणेषु च।
युधिष्ठिरमुवाचेदं वासुदेवः प्रतापवान्॥ 2-72-20(14175)
आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन।
राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि॥ 2-72-21(14176)
तमुवाचैवमुक्तस्तु धर्मराजो जनार्दनम्।
तव प्रसादाद्गोविन्द प्राप्तः क्रतुवरो मया॥ 2-72-22(14177)
क्षत्रं समग्रमपि च त्वत्प्रसादाद्वशे स्थितम्।
उपादाय बलिं मुख्यं मामेव समुपस्थितम्॥ 2-72-23(14178)
कथं त्वद्गमनार्थं मे वाणी वितरतेऽनघ॥ 2-72-24(14179)
न ह्यहं त्वामृते वीरं रतिं प्राप्नोमि कर्हचित्।
अवश्यं चैव गन्तव्या भवता द्वारका पुरी॥ 2-72-25(14180)
वैशम्पायन उवाच॥ 2-72-26x(1508)
एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान्।
अभिगम्याब्रवीत्प्रीतः पृथां पृथुयशा हरिः॥ 2-72-26(14181)
साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः।
सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिमवाप्नुहि॥ 2-72-27(14182)
अनुज्ञातस्त्वया चाहं द्वारकां गन्तुमुत्सहे।
सुभद्रां द्रौपदीं चैव सभाजयत केशवः॥ 2-72-28(14183)
निष्क्रम्यान्तः पुरात्तस्माद्युधिष्ठिरसहायवान्।
स्नातश्च कृतजप्यश्च ब्राह्मणान्स्वस्ति वाच्य च॥ 2-72-29(14184)
ततो मेघवपुः प्रग्व्यं स्यन्दनं च सुकल्पितम्।
योजयित्वा महाबाहुर्दारुकः समुपस्थितः॥ 2-72-30(14185)
उपस्थितं रथं दृष्ट्वा तार्क्ष्यप्रवरकेतनम्।
प्रदक्षिणमुपावृत्य समारुह्य महामनाः॥ 2-72-31(14186)
प्रययौ पुण्डरीकाक्षस्ततो द्वारवतीं पुरीम्॥ 2-72-32(14187)
तं पद्भ्यामनुवव्राज धर्मराजो युधिष्ठिरः।
भ्रातृभिः सहितः श्रीमान्वासुदेवं महाबलम्॥ 2-72-33(14188)
ततो मुहूर्तं सङ्गृह्य स्यन्दनप्रवरं हरिः।
अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम्॥ 2-72-34(14189)
अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशाम्पते।
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः॥ 2-72-35(14190)
बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः।
कृत्वा परस्परेणैव संवादं कृष्णपाण्डवौ॥ 2-72-36(14191)
अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान्प्रति।
गते द्वारवतीं कृष्णे सात्वतप्रवरे नृप॥ 2-72-37(14192)
महादुर्योधनो राजा शकुनिश्चापि सौबलः।
`सूतपुत्रश्च गधेयः सह दुःशासनादिभिः॥ 2-72-38(14193)
सर्वकामगुणोपेतैरर्च्यमानास्तु भारत'।
तस्यां सभायां दिव्यायामवसंस्तत्र पाण्डवैः॥ ॥ 2-72-39(14194)
इति श्रीमन्महाभारते सभापर्वणि शिशुपालवधपर्वणि द्विसप्ततितमोऽध्यायः॥72 ॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-72-28 सभाजयत प्रीणितवान्॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|